Sunday, October 18, 2009

संस्कृत संभाषण

शिष्टाचार:

हरि: ॐ / प्रणाम = Hello

सुप्रभातम् = Good morning

नमस्कार: / नमस्ते = Good afternoon / Good evening

शुभरात्री = Good night

धन्यवादः = Thank you

स्वागतम् = Welcome

क्षम्यताम् = Excuse / Pardon me

चिन्ता मास्तु = Don't worry

कृपया = Please

पुनः मिलामः = Let's meet again

अस्तु = Alright / O.K.

श्रीमान् = Sir

मान्ये / आर्ये = Lady

साधु साधु / समीचीनम् = Very good



मिलनम्

भवतः नाम किं = What is your name (M)

भवत्या: नाम किम = What is your name (F)

मम नाम _ | = My name is _

एषः मम मित्रं = This is my friend (M)

एषा मम सखी = This is my friend (F)

एतेषां विषये श्रुतवान् = I have heard of them

भवान् किं (उद्योगं) करोति = What do you do?

भवती किं (उद्योगं) करोति = What do you do?

अहं अध्यापकः अस्मि | = I am a teacher (M)

अहं अध्यापिका अस्मि | = I am a teacher (F)

अहं अधिकारी = Officer

उट्टङक: = Typist

तंत्रज्ञः = Engineer

प्राध्यापकः = Professor

लिपिकः = Clerk

न्यायवादी = Lawer

विक्रयिकः = Salesman

उपन्यासकः अस्मि = I am a lecturer

अहं यन्त्राकारे कार्यं करोमि = I work in a factory

कार्यालये = office

महाविद्यालये = college

वित्तकोषे = bank

चिकित्सालये = hospital

प्रौढशालायां = high school

रात्रशालायां = night school

भवान्/भवती कस्यां कक्ष्यायां पठति ? = Which class are you in?

अहं नवमकक्ष्यायां पठमि | = I am in IXth standard

भवतः ग्रामः ? = Where are you from

मम ग्रामः _ | = I am from _

कुशलं वा? = How are you?

कथमस्ति भवान् = How are you?

गृहे सर्वे कुशलिनः वा? = Are all well at home?

सर्वं कुशलम् = All is well

कः विशेषः ? (का वार्ता ? ) = What news?

भवता एव वक्तव्यम् | = You have to say

कोsपि विशेषः ? = Anything special?

भवान् (भवति) कुतः आगच्छति ? = Where are you coming from?

अहं शालातः, गृहतः, _ आगच्छति | = I am coming from school, house,_.

भवान् / भवती कुत्र गच्छति ? = Where are you going?

भवति इति वा पश्यामः | = Let us see if it can be done

ज्ञातं वा? = Understand?

कथं आसीत् = How was it?

अङगीकृतं किल ? = Agreed?

कति अपेक्षितानि ? = How many do you want?

अद्य एव वा ? = Is it today?

इदानीं एव वा ? = Is it going to be now?

आगन्तव्यं भो: | = Please do come

तदर्थं वा ? = Is it for that ?

तत् किमपि मास्तु = Don't want that

न दृश्यते ? = Can't you see?

समाप्तं वा ? = Is it over?

कस्मिन समये ? = At what time?

तथापि = even then

आवश्यकं न आसीत् | = It was not necessary

तिष्ठतु भो: | = Be here for some more time

स्मरति किल ? = Remember, don't you

तथा किमपि नास्ति | = No, it is not so

कथं अस्ति भवान् ? = How are you?

न विस्मरतु | = Don't forget

अन्यच्च = besides

तदनन्तरम् = then

तावदेव किल ? = Is it only so much?

महान् सन्तोषः | = Very happy about it

तत् तथा न ? = Is it not so?

तस्य कः अर्थः ? = What does it mean?

आं भो: | = Yes, Dear, Sir!

एवमेव = just

अहं देवालयं / कर्यालयं / विपणिं गच्छामि | = I am going to temple/office/market

किं चिराद् दर्शनं ? = What is the matter?r You are not seen these days

भवन्तं कुत्रापि दृष्टवान् | = I remember to have seen you somewhere

भवान् सम्भाषणशिबिरं आगतवान् वा ? = Have you come to the conversation camp

तर्हि कुत्र दृष्टवान् ? = In that case where have I seen you?

तर्हि तत्रैव दृष्टवान् = I must have seen you there in that केस


सरल वा
क्यानि

तथैव अस्तु | = Let it be so / so be it

जानामि भो: | = I know it

आम्, तत् सत्यम् | = Yes, that is right

समीचीना सूचना | = A good suggestion indeed

किंचित् एव | = A little

किमर्थं तद् न भवति ? = Why can't that be done?

ओहो ! तथा वा ? = Oh! is that so?

एवमपि अस्ति वा ? = Is it like this?

अथ किम् = Then?

नैव किल ! = No

भवतु ! = Yes

आगच्छतु | = Come in

उपविशन्तु | = Please sit down

सर्वथा मास्तु | = Definitely no

अस्तु वा ? = Can that be so?

किमर्थं भो: ? = Why?

प्राप्तं किल ? = You have got it, haven't you?


सामान्य वाक्यानि

प्रयत्नं करोमि | = I will try

न शक्यते भो: | = No, I can't

तथा न वदतु | = Don't say that

तत्र कोSपि सन्देहः नास्ति | = there is no doubt about it

तद् अहं न ज्ञातवान् | = I don't know that

कदा ददाति ? = When are you going to give me?

अहं कथं वदामि 'कदा इति' ? = How can i say

तथा भवति वा? = Can that be so?

भवतः समयावकाशः अस्ति वा? = Are you free?

अद्य भवतः कार्यक्रमः कः ? = What are your programms for today

अरे ! पादस्य / हस्तस्य किं अभवत् ? = Ohh! what happened to your legs / arms?

बहुदिनेभ्यः ते परिचिता: | = I have known him for long

तस्य कियद् धैर्यं / धार्ष्टयम् ? = How dare he is?

भवान् न उक्तवान् एव | = You have not told me

अहं किं करोमि ? = What can i do?

अहं न जानामि | = i do not know

यथा भवान् इच्छति तथा | = As you wish / say

भवतु, चिन्तां न करोतु | = Yes, do not bother

तेन किमपि न सिध्यति | = There is no use

सः सर्वथा अप्रयोजकः | = He is good for nothing

पुनरपि एकवारं प्रयत्नं कुर्मः | = Let us try once more

मौनमेव उचितम् | = Better be quiet

तत्र अहं किमपि न वदामि | = No comments / I don't want to say anything in this regard.

तर्हि समीचीनम् | = O.K. if that is so.

एवं चेत् कथम् ? = How to get on, if it is so?

मां किञ्चित् स्मारयतु | = Please remind me.

तं अहं सम्यक् जानामि | = I know him well.

तदानीमेव उक्तवान् किल ? = Haven't I told you already?

कदा उक्तवान् भो: ? = When did you say so?

यत्किमपि भवतु | = Happen what may.

सः बहु समीचीनः | = He is a good fellow.

सः बहु रुक्षः | = He is very rough.

तद्विषये चिन्ता मास्तु | = Don't worry about that.

तथैव इति न नियम: | = It is not like that.

कर्तुं शक्यं, किञ्चित् समयः अपेक्षते | = I 7 We can do it, but require time.

एतावत् अपि कृतवान् ! = At least he has done this much.

द्रष्टुं एव न शक्यते | = Can't see it.

तत्रैव कुत्रापि स्यात् | = It may be somewhere there.

यथार्थं वदामि | = i am telling the truth.

एवं भवितुं अर्हति | = This is O. K. / all right.

कदाचित् एवमपि स्यात् | = It may be like this sometimes.

अहं तावदपि न जानामि वा ? = Don't I know that much?

तत्र गत्वा किं करोति ? = What are you going to do there?

पुनः आगच्छन्तु | = Do come again.

मम किमपि क्लेशः नस्ति | = It is no trouble to me.

एतद् कष्टं न | = This is not difficult.

भो:, आनीतवान् वा | = Have you brought it?

भवतः कृते कः उक्तवान् ? = Who told you this?

किञ्चिदनन्तरं आगच्छेत् | = He/It may come sometime later.

प्रायः तथा न स्यात् | = by and large, it may not be so.

चिन्ता मास्तु, श्व: ददातु | = It is no bother, return it tomorrow.

अहं पुनः सूचयामि | = I will let you know.

अद्य आसीत् वा ? = Was it today?

अवश्यं आगच्छामि | = Certainly, I will come.

नागराजः अस्ति वा ? = Is Nagraj in?

किमर्थं तत् एवं अभवत् ? = Why did it happen so?

तत्र आसीत् वा ? = Was it there?

किमपि उक्तवान् वा ? = did you say something?

कुत: आनीतवान् ? = Where did you bring it from?

अन्यत् कार्यं किमपि नास्ति | = Do not have any other work.

मम वचनं शृणोतु | = Please listen to me.

एतत् सत्यं किल ? = It is true, isn't it?

तद् अहं अपि जानामि | = I know it myself.

तावद् आवश्यकं न | = It is not needed so badly.

भवत: का हानि: ? = what loss is it to you?

किमर्थं एतावान् विलम्बः ? = Why are you late?

यथेष्टं अस्ति | = Available in plenty.

भवतः अभिप्रायः कः ? = What is your opinion?

अस्य किं कारणम् = What is the reason for this?

स्वयमेव करोति वा ? = Do you do it yourself?

तत् न रोचते | = I don't like it.

उक्तं एव वदति सः | = He has been repeating the same tning.

अन्यथा बहु कष्टम् | = It will be a big botheration if it is not so.

किमर्थं पूर्वं न उक्तवान् ? = Why didn't you say it earlier?

स्पष्टं न जानामि | = Don't know exactly.

निश्चयः नास्ति | = not sure.

कुत्र आसीत भवान् ? = Where were you?

भीति: मास्तु | = Don't ge frightened.

भयस्य कारणं नास्ति | = Not to fear.

तदहं बहु इच्छामि | = I like it very much.

कियत् लज्जास्पदम् ? = what a shame?

सः मम दोषः न | = it is not my fault.

मम तु आक्षेपः नास्ति | = I have no objection.

सः शीघ्रकोपी | = He is short-tempered.

तीव्रं मा परिगणयतु | = Do not take it seriously.

युक्ते समये आगतवान् | = You have come at the right time.

बहु जल्पति भो: | = He talks too much.

एषा केवलं किंवदन्ती | = it is just gossip.

किमपि न भवति | = Nothing happens.

एवमेव आगतवान् = Just to came to call on you.

विना कारणं किमर्थं गन्तव्यम् ? = Why go there unnecessarily?

भवतः वचनं सत्यम् | = You are right.

मम वचनं कः शृणोति ? = Who listens to me?

तदा तद् न स्फुरितम् | = it did not flash me then.

किमर्थं तावती चिन्ता ? = Why so much botheration.

भवतः किं कष्टं अस्ति ? = Tell me, what your trouble is?

छे, एवं न भवितव्यं आसीत् | = Ohh, it should not have happened.

अन्यथा न चिन्तयतु | = Don't mistake me.

No comments: